प्रथमावृत्तिः
सूत्रम्॥
कर्तरि शप्॥ ३।१।६८
पदच्छेदः॥
कर्तरि ७।१ ८८ शप् १।१ सार्वधातुके ७।१ ६७ धातोः ५।१ २२ प्रत्ययः १।१ १ परश्च १।१ २
अर्थः॥
कर्तृवाचिनि सार्वधातुके परतः धातोः शप् प्रत्ययः परश्च। लट्, लोट्, लङ्, विधिलिङ्, इत्येते लकाराः {तिङ्शित् सार्वधातुकम् (३।४।११३)} इत्येस्मात् सार्वधातुकसंज्ञकाः भवन्ति, शप्-प्रत्ययः भवति च।
उदाहरणम्॥
भवति, पठति। भवतु, पठतु। अभवत्, अपठत्। भवेत्, पठेत्।
काशिका-वृत्तिः
कर्तरि शप् ३।१।६८
कर्तृवाचिनि सार्वधातुके परतो धातोः शप् प्रत्ययओ भवति। पकारः स्वरार्थः। शकारः सार्वधातुकसंज्ञार्थः। भवति। पचति।
लघु-सिद्धान्त-कौमुदी
कर्तरि शप् ३८९, ३।१।६८
कर्त्रर्थे सार्वधातुके परे धातोः शप्॥
न्यासः
कत्र्तरि शप्। , ३।१।६८
" पकारः स्वरार्थः" इति। "अनुदात्तौ सुप्पितौ"
३।१।४ इत्यनुदात्तत्वं यथा स्यात्। "शकारः सार्वधातुकसंज्ञार्थः" इति। "तिङशित्सार्वधातुकम्"
३।४।११३ इति सार्वधातुकत्वं यथा स्यात्। श्यन्प्रभृतीनामपि शकारस्यैतत् प्रयोजनं वेदितव्यम्॥
बाल-मनोरमा
कर्तरि शप् १७, ३।१।६८
कर्तरि शप्। "सार्वधातुके य"गित्यस्मात्सार्वधातुक इत्यनुवर्तते। "धातोरेकाचो हलादे"रित्यस्माद्धातोरिति। तदाह-- कत्र्रर्थ इत्यादिना। तिङि परे धातोर्विहितानां प्रत्यायानां शबादीनां विकरणसंज्ञा प्राचीनाचार्यसिद्धा। शपाविताविति। शकारपकारौ "लशक्वतद्धिते" इति "हलन्त्य"मिति चेत्संज्ञकावित्यर्थः। ततश्च शपि शकारपकारयोर्लोपेऽकारमात्रं शिष्यत इत्यर्थः।
तत्त्व-बोधिनी
कर्तरि शप् १४, ३।१।६८
"सार्वधातुके य" गित्यतः सार्वधातुक इत्यनुवर्तते, "धातोरेकाचःर" इति सूत्राद्धातोरिति च, तदाह-- कत्र्रर्थ इत्यादि।